|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.209. अध्यायः 209
Mahabharata - Vana Parva - Chapter Topics
तरुतले तपस्यता कौशिकेनात्मोपरि पुरीषोत्सृष्ट्या बलाकायाः सक्रोधनिरीक्षणेन दहनम् ॥ 1 ॥ तथा भिक्षार्थं पतिव्रतायाः कस्याश्चिद्गृहं प्रविष्टं भिक्षादाने चिरीकरणेन रुष्टं च कौशिकंप्रति तया स्वत्य बलाकावृत्तान्तावगतिसूचनेन स्वशक्तिप्रकाशनपूर्वकं धर्मावगतये धर्मव्याधसमीपगमनचोदना ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-209-0x(2471)(24130)
कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः।
तपस्वी धर्मशीलश्च कौशिको नाम भारत ॥ 3-209-1(24131)
साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः।
सवृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः ॥ 3-209-2(24132)
उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत।
तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि ॥ 3-209-3(24133)
समवेक्ष्यततः क्रुद्धः सममध्यायत द्विजः।
`तां बलकां महाराज निलीनां नगमूर्धनि ॥ 3-209-4(24134)
भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता।
अपध्याता च विप्रेण न्यपतद्धरणीतले ॥ 3-209-5(24135)
बलाकां पतितां दृष्ट्वा गतसत्वामचेतनाम्।
कारुण्यादभिसंतप्तः पर्यशोचत तां द्विजः।
अकार्यं कृतवानस्मि द्वेषरागबलात्कृतः ॥ 3-209-6(24136)
इत्युक्ताव बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः।
ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ ॥ 3-209-7(24137)
देहीति याचमानोऽसौ तिष्ठेत्युक्तः स्त्रिया ततः।
शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिवी ॥ 3-209-8(24138)
एतस्मिन्नन्तरे राजन्क्षुधासंपीडितो भृशम्।
भर्ता प्रविष्टः सहसा तस्या भरतसत्तम ॥ 3-209-9(24139)
सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम्।
पाद्यमाचमनीयं वै ददौ भर्तुस्तथाऽऽसनम् ॥ 3-209-10(24140)
प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा।
आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा ॥ 3-209-11(24141)
उच्छिष्टं भाविता भर्तुर्भुङ्क्ते नित्यं युधिष्ठिर।
दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी ॥ 3-209-12(24142)
कर्मणा मनसा वाचा नात्यश्नान्नापि चापिवत्।
तं सर्वभावोपगता पतिशुश्रूषणे रता ॥ 3-209-13(24143)
साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी।
भर्तुश्चापि हितं यत्तत्सततं साऽनुवर्तते ॥ 3-209-14(24144)
देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा।
शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया ॥ 3-209-15(24145)
सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम्।
कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा ॥ 3-209-16(24146)
व्रीडिता साऽभवत्साध्वी तदा भरतसत्तम।
भिक्षामादाय विप्राय निर्जगाम यशस्विनी ॥ 3-209-17(24147)
ब्राह्मण उवाच। 3-209-18x(2472)
किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने।
उपरोधं कृतवती न विसर्जितवत्यसि ॥ 3-209-18(24148)
मार्कण्डेय उवाच। 3-209-19x(2473)
ब्राह्मणं क्रोधसंतप्तं ज्वलन्तमिव तेजसा।
दृष्ट्वा साध्वी मनुष्येन्द्रसान्त्वपूर्वं वचोऽब्रवीत् ॥ 3-209-19(24149)
`क्षमस्वविप्रप्रवर क्षमस्व स्त्रीजडात्मताम्।
प्रसीद भगवन्मह्यं कृपां कुरु मयि द्विज' ॥ 3-209-20(24150)
क्षन्तुमर्हसि मे विद्वन्भर्ता मे दैवतं महत्।
स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितोमया ॥ 3-209-21(24151)
ब्राह्मण उवाच। 3-209-22x(2474)
ब्राह्मणआ न गरीयांसो गरीयांस्ते पतिः कृतः।
गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे ॥ 3-209-22(24152)
इन्द्रोऽप्येषां प्रणमते किं पुनर्मानवो भुवि।
अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया ॥ 3-209-23(24153)
ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि।
`सपर्वतवनद्वीपां क्षिप्रमेवावमानिताः' ॥ 3-209-24(24154)
स्त्र्युवाच। 3-209-25x(2475)
[नाहं बलाका विप्रर्षे त्यज क्रोधं तपोधन।
अनया क्रुद्धया दृष्ट्या क्रुद्धः किं मां करिष्यसि] 3-209-25(24155)
नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः।
अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ ॥ 3-209-26(24156)
जानामि तेजो विप्राणआं महाभाग्यं च धीमताम्।
अपेयः सागरः क्रोधात्कृतो हि लवणोदकः ॥ 3-209-27(24157)
तथैव दीप्ततपसां मुनीनां भावितात्मनाम्।
येषां क्रोधाग्निरद्यापि समुद्रे नोपशाम्यति।
`कस्तान्परिभवेन्मूढो ब्राह्मणानमितौजसः' ॥ 3-209-28(24158)
ब्राह्मणानां परिभवाद्वातापिः सुदुरात्मवान्।
अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः ॥ 3-209-29(24159)
बहुप्रभावाः श्रूयन्ते ब्राह्मणानां महात्मनाम्।
क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम्।
अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ ॥ 3-209-30(24160)
पतिशुश्रूषया धर्मो य स मे रोचते द्विज।
दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् ॥ 3-209-31(24161)
अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम।
शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् ॥ 3-209-32(24162)
बलाका हि त्वया दग्धा रोषात्तद्विदितं मया।
क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम ॥ 3-209-33(24163)
`मास्म क्रुध्यो बलाकेव न वध्याऽस्मि पतिव्रता'।
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ॥ 3-209-34(24164)
यो वदेदिह सत्यानि गुरुं संतोषयेत च।
हिंसितश्च त हिंसेत तं देवा ब्राह्मणं विदुः ॥ 3-209-35(24165)
जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः।
कामक्रोधौ वशौ यस्य तं देवा ब्राह्मणं विदुः ॥ 3-209-36(24166)
यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः।
सर्वधर्मेषु चरतस्तं देवा ब्राह्मणं विदुः ॥ 3-209-37(24167)
योऽध्यापयेदधीयीत यजेद्वा याजयीत वा।
दद्याद्वाऽपि यथाशक्ति तं देवा ब्राह्मणं विदुः ॥ 3-209-38(24168)
ब्राह्मचारी वदान्यो योप्यधीयाद्द्विजपुङ्गवः।
स्वाध्यायवानमत्तो वै तं देवा ब्राह्मणं विदुः ॥ 3-209-39(24169)
यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत्।
सत्यं तथा व्याहरतां नानृते रमते मनः ॥ 3-209-40(24170)
धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम्।
इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ॥ 3-209-41(24171)
सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः।
दुर्ज्ञेयः शाश्वतो धर्मः स च सत्ये प्रतिष्ठितः ॥ 3-209-42(24172)
श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम्।
बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम ॥ 3-209-43(24173)
भगवानपि धर्मज्ञः स्वाद्यायनिरतः शुचिः।
न तु तत्त्वेन भगवन्दर्मं वेत्सीति मे मतिः ॥ 3-209-44(24174)
यदि विप्र न जानीषे धर्मं परमकं द्विज।
धर्मव्याधं तत पृच्छ गत्वा तु मिथिलां पुरीम् ॥ 3-209-45(24175)
मातापितृभ्यां शुश्रूपुः सत्यवादी जितेन्द्रियः।
मिथिलायां वसेद्व्याधः स ते धर्मान्प्रवक्ष्यति ॥ 3-209-46(24176)
तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम।
`व्याधः परमधर्मात्मा स ते छेत्स्यति संशयम्' ॥ 3-209-47(24177)
अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित।
स्त्रियो ह्यवध्याः सर्वेषां ये धर्ममभिविन्दते ॥ 3-209-48(24178)
ब्राह्मण उवाच। 3-209-49x(2476)
प्रीतोस्मि तव भद्रं ते गतः क्रोधश्च शोभने।
उपालम्भस्त्वया प्रोक्तो मम निश्रेयसं परम् ॥ 3-209-49(24179)
स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने।
`धन्या त्वमसि कल्याणि यस्याः स्याद्वृत्तमीदृशम्। 3-209-50(24180)
मारक्ण्डेय उवाच। 3-209-51x(2477)
3-209-51(24181)
तया विसृष्टो निर्गत्य स्वमेव भवनं ययौ।
विनिन्दन्स स्वमात्मानं कौशिको द्विजसत्तमः ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-209-28 दण्डकेनोपशाम्यति इति झ. पाठः ॥ 3-209-48 अभिविन्दते जानन्तीत्यर्थः ॥ 3-209-50 साधयिष्यामि स्वकार्यमिति शेषः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|